|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.123. अध्यायः 123
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना दुःशासनपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-123-0x(4573)(49972)
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्॥ 7-123-1(49973)
स विद्व्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम्॥ 7-123-2(49974)
तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम्।
रथव्रातेन महता नानादेशोद्भवेन च॥ 7-123-3(49975)
सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून्।
पर्जन्य इव घोषेण नादयन्वै दिशो दश॥ 7-123-4(49976)
तमापतन्तमालोक्य सात्यकिः कौरवं रणे।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः॥ 7-123-5(49977)
ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः॥ 7-123-6(49978)
तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशानस्तव।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः॥ 7-123-7(49979)
चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः॥ 7-123-8(49980)
ततः क्रुद्धो महाराज माधवस्तस्य संयुगे।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः॥ 7-123-9(49981)
स तु दुःशासनं शूरं सायकैरावृणोद्भृशम्।
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया॥ 7-123-10(49982)
त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित्॥
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्। 7-123-11(49983)
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति॥ 7-123-12(49984)
तेऽगच्छन्युयुधानस्य समीपं क्रुरकर्मणः।
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः॥ 7-123-13(49985)
ते तु तं रथवंशेन महता पर्यवारयन्।
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः॥ 7-123-14(49986)
तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम्।
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत्॥ 7-123-15(49987)
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः।
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः॥ 7-123-16(49988)
नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते।
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी॥ 7-123-17(49989)
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः।
अशोभत महाराज किंशुकैरिव पुष्पितैः॥ 7-123-18(49990)
ते वध्यमानाः समरे युयुधानेन तावकाः।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः॥ 7-123-19(49991)
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति।
भयात्पतगराजस्य गर्तानीव महोरगाः॥ 7-123-20(49992)
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः।
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति॥ 7-123-21(49993)
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव।
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः॥ 7-123-22(49994)
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः।
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः॥ 7-123-23(49995)
सात्यकिं तु महाराज प्रहसन्निव भारत।
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः॥ 7-123-24(49996)
शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः।
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ॥ 7-123-25(49997)
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते।
सर्वपारशवीं शक्तिं विससर्ज जिघांसया॥ 7-123-26(49998)
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः।
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः॥ 7-123-27(49999)
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर।
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च॥ 7-123-28(50000)
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव।
शरैरग्निशिखाकारैराजघान स्तनान्तरे॥ 7-123-29(50001)
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः।
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः॥ 7-123-30(50002)
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत।
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे॥ 7-123-31(50003)
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः।
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः॥ 7-123-32(50004)
सारथिं च सुराङ्क्रुद्धः शरैः सन्नतपर्वभिः।
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः॥ 7-123-33(50005)
ध्वजं च रथशक्तिं च भल्लाभ्यां परमस्त्रिवित्।
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी॥ 7-123-34(50006)
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
त्रिगर्तसेनापतिना स्वरथेनापवाहितः॥ 7-123-35(50007)
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत।
न जघान महाबाहुर्भीमसेनवचः स्मरन्॥ 7-123-36(50008)
भीमसेनेन तु वधः सुतानां तव भारत।
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे॥ 7-123-37(50009)
ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो।
जगाम त्वरितो राजन्येन यातो धनञ्जयः॥ ॥ 7-123-38(50010)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोविंशत्यधिकशततमोऽध्यायः॥ 123 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|